CBSE Class 10 Sanskrit Syllabus 2026-27
CBSE Class 10 Sanskrit Session 2026-27. This syllabus introduces Sanskrit as a foundational language of Indian culture and knowledge. It aims to enhance students' communication abilities in Sanskrit, preserve cultural heritage, and stimulate intellectual and spiritual development. The examination is structured into four sections: Unseen Comprehension (10 marks), Creative Work (15 marks), Applied Grammar (25 marks), and Seen Comprehension (30 marks). The total marks for the annual examination are 80, covering a comprehensive assessment of Sanskrit language proficiency and cultural understanding.
Quick info
| Board | CBSE |
|---|---|
| Class | 10 |
| Subject | Sanskrit |
| Session | 2026-27 |
| Language | English |
| Type | Syllabus |
Syllabus PDF preview
Read page by page below. PDF is streamed from the official NCERT website — no download button on this page.
Full document text
संस्कृतम् विषय-कोड्-सङ्ख्या - 122 कथा — दश्मी (2026-27) पाठ्यक्रमः परीक्षानिर्देशाश्च
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा, मानवः स्वमनसि विद्यमानान् विचारान् भावनाः अनुभूतिं च अर्थयुक्तैः ध्वनिभिः लिखितसङ्केतैः च व्यक्तीकरोति सा भाषा। भाषा अभिप्रायप्रकटनस्य साधनम्। वस्तुतः लोके द्वयोः मनुष्ययोः मध्ये परस्परम् अवबोधनाय, भावग्रहणाय, भावविनिमयाय च भाषया विना न अन्यत् स्पष्टतमं सरलतमं च साधनं विद्यते। लोके बहव्यः भाषाः सन्ति यासु संस्कृतभाषा अतिप्राचीनतमा समृद्धा च अस्ति। संस्कृतभाषायाम् एव सन्ति ऋग्यज्स्सामाथर्वाः चत्वारः वेदाः, शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः कल्पः चेति षडङ्गानि, चतुर्दशविद्याः, विज्ञानम्, आयुर्वेदः, योगशास्त्रादयः ग्रन्थाः । अतः संस्कृतं केवलं भाषा न अपितु किञ्चन जीवनदर्शनम् इति । इयं विद्या (भाषा) भारतीयानां प्रतिष्ठात्मिका कामधेनुः समस्तज्ञानप्रदात्री, ऐक्यप्रदात्री, धर्मार्थकाममोक्षप्रदात्री च अस्ति । सृष्टेः आदितः अद्यावधिः यत् शिक्षणं ज्ञानविज्ञानं च अस्ति तत् सर्वं अस्यां भाषायामेव सन्निहितम् अस्ति । अतिसूक्ष्मभावनां प्रकटियतुं स्पष्टीकर्तुं संस्कृतं विना नैव अन्यत्र विद्यते सामर्थ्यम् । भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम् अस्ति ।
संस्कृतस्य भाषावैज्ञानिकत्त्वम् – ऐतिहासिक-वर्णनात्मक-तुलनात्मकाध्ययन-द्वारा भाषायाः प्रकृतेः विकासोत्पत्तेः संरचनायाः अध्ययनपूर्वकं सर्वेषां विषयाणां सैद्धान्तिकः निर्णयः भाषाविज्ञानेन क्रियते । भाषाविज्ञान-नामकशास्त्रे शब्दानाम् उत्पत्तिः, वाक्यानां संरचना इत्यादीनां विषयाणां विचारः क्रियते। भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः सह अस्ति। एवं भाषाविज्ञाने ध्वनेः, ध्वनि-उच्चारणोपयोगिनां स्वरयन्त्रमुखजिह्वादि-अङ्गानां प्रकृति-प्रत्ययादीनां, संज्ञासर्वनाम- क्रिया-विशेषणादीनां नामाख्यात-उपसर्जननिपातानां पदपदार्थविषयकानां विकारादीनां विकारमूलककारकाणाम् अन्येषां विविधविषयाणाञ्च अध्ययनं क्रियते। भाषाविज्ञाने संस्कृतभाषा-विषयक-वर्णोत्पत्ति-सिद्धान्तस्य अतीव वैज्ञानिकं निरूपणं कृतं वर्तते।
विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति। प्रायः सर्वासु भाषासु संस्कृतपरकशब्दाः उपलभ्यन्ते। संस्कृतभाषा भारतीयभाषाणां जननी इति कथ्यते। सर्वासु भारतीयभाषासु संस्कृतभाषा अन्तर्लीना अस्ति इति सर्वे अङ्गीकुर्वन्ति ।
भारतदेशः बहुभाषी देशोऽस्ति । अस्मिन् देशे अनेकतायाम् एकतावर्धिनी भाषेयं सामाजिकसमरसतायै जीवनविकासाय च आवश्यकी वर्तते। संस्कृतस्य सांस्कृतिकं महत्त्वं वर्णयन्तः विद्वांसः कथयन्ति “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा, संस्कृतिमूलं संस्कृतम्, साहित्यं संस्कृतिवाहकञ्च इति।” एषा संस्कृतिः न केवलं भारतस्य अपि तु विश्वस्य मुकुटायमाना अस्ति। उक्तं च -
सत्यमहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिः सुखधात्री भारतीया हि संस्कृतिः॥
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकलाः कलाः।
संस्कृते सकलं ज्ञानं संस्कृते किन्न विद्यते॥
एवं संस्कृतभाषा परिनिष्ठिता, दोषरहिता, सरला, गभीरा, यथार्था वैज्ञानिकी च भाषा अस्ति । सम्प्रति युगेस्मिन् प्रमुखैः उद्देश्यैः संस्कृतभाषा शिक्षणीया अस्ति।
शिक्षणोदेश्यानि -
वस्धैव-कुटुम्बकम् इति भावनाविकासः। 1
- भारतीयभाषाणां संरक्षणम्।
- संस्कृतभाषया सम्प्रेषणकौशलविकासः।
- परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
- संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
- श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक-कौशलानां विकासः ।
- बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
- मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च।
- भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
- आत्मानुशासनसंस्थापनार्थम्
- भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः ।
- परस्परं वार्तालापमाध्यमेन भावविनिमयः।
- संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः।
- मानवजीवनस्य विकासपूर्वकं कल्याणम्।
- संस्कृतभाषया छात्राणां सर्वविधविकासः।
शिक्षणप्रविधयः -
- संस्कृतमाध्यमेन सम्भाषणविधिना शनैः शनैः संस्कृतशिक्षणं सम्भविष्यति । गतिवर्धनाय संस्कृताध्यापकैः धैर्येण स्वकीयाध्यापन-कार्यक्रमाणां नियोजनम् । रुचिकरभाषाभ्यासेन भाषिकोपलब्धिः । भाषिकाभ्यासाय वार्तालाप- कथाश्रवण-वादविवाद-संवाद-वर्णनपरकप्रतियोगिताभिः भाषाशिक्षणं कारियतुं शक्यते।
- विभिन्नप्रामाणिकसंस्थानां कार्यक्रमाः साहित्यसामग्र्यश्च प्रयुज्य उत्तमशिक्षणं कर्तुं शक्यते ।
- संस्कृतभाषया उपलब्ध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
- भाषाशिक्षकः छात्रान् स्नेहपूर्वकम् (आत्मीयभावेन) पाठयेत्।
- विभिन्नपाठ्यसामग्रीद्वारा शिक्षकः स्वकीयं शिक्षणकार्यं रुचिकरं कर्तुं शक्नोति।
- अद्यतनपूर्वकं साहित्यकोश-शब्दकोश-सन्दर्भग्रन्थानां सहायतया छात्राणां तत्परतावर्धनम्।
प्राचीनार्वाचीनयोर्मध्ये समन्वयस्थापनद्वारा नूतनशिक्षणविधिभिश्च संस्कृतशिक्षणम् ।
कॉरासानि-
- अवणकोशलम् – भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम् । अस्य साधनानि- गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि ।
- भाषणकौरासम्- भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्। वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
- पठनकौशलम् – भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम्। (अर्थग्रहणपूर्वकं स्पष्टरूप-वाचनम् इत्यर्थः)
- लेखनकौशलम्- भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम् । (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
- ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक-लक्षिताधिगमनविशेषाः।
2
संस्कृतम् विषय-कोड्-सङ्ख्या - 122
क्या - दशमी (2026-27)
वार्षिकमूल्याङ्गनाय निर्मिते प्रश्नपत्रे चलारः खण्डाः भविष्यन्ति -
‘क’ खण्डः अपठित-अवबोधनम् 10 वहाः
‘ख’ खण्डः रचनात्मक-कार्यम् 15 वड्डाः
‘ग’ खण्डः अनुप्रयुक्त-व्याकरणम् 25 अङ्काः
‘घ’ खण्डः पठित-अवनोधनम् 30 वहाः
खण्डानुसारं विषयाः मूल्यभारः च
क्र. सं. विषयाः प्रश्नप्रकाराः मुल्यभारः
‘क’ खण्डः
अपठितावबोधनम् 10 वहाः
1 एकः गद्यांशः अति-लघूत्तरात्मकौ <math>2\times1=2</math>
80-100 शब्दपरिमितः पूर्णवाक्यात्मकौ <math>2 \times 2 = 4</math>
शीर्षकम् (लघूत्तरात्मकः) <math>1 \times 1 = 1</math>
भाषिककार्यम् (बहुविकल्पात्मकाः) <math>3\times1=3</math>
सम्पूर्णभारः 10 वहाः
‘ব’ বডঃ
रचनात्मककार्यम् 15 वड़ाः
- औपचारिकम् अथवा अनौपचारिकं पत्रम् निबन्धात्मकः 5
(मञ्जूषायाः सहायतया पूर्णं पत्रं लेखनीयम्)
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम् निबन्धात्मकः 5
- हिन्दी/आङ्ग्लभाषातः संस्कृतेन अनुवादः पूर्णवाक्यात्मकः <math>5\times1=5</math> सम्पूर्णभारः 15 वहाः ‘ग’ खण्डः अनुप्रयुक्तव्याकरणम् 25 वहाः
- सन्धिः लघूत्तरात्मकाः <math>4 \times 1 = 4</math>
- समासः बहुविकल्पात्मकाः <math>4 \times 1 = 4</math>
- प्रत्ययाः बहुविकल्पात्मकाः <math>4 \times 1 = 4</math>
- वाच्यप्रकरणम् बहुविकल्पात्मकाः <math>3 \times 1 = 3</math>
- समयः लघूत्तरात्मकाः <math>4\times1=4</math>
- अव्ययपदानि बहुविकल्पात्मकाः <math>3 \times 1 = 3</math>
- संशोधनकार्यम् बहुविकल्पात्मकाः <math>3\times1=3</math> सम्पूर्णभारः 25 वहाः
3
‘घ’ खण्डः पठितावबोधनम् 30 वहाः
- गद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2 \times 1 = 2</math>
<math>2 \times 1 = 2</math>
- पद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2 \times 1 = 2</math>
<math>2\times1=2</math>
- नाट्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2 \times 1 = 2</math>
<math>2\times1=2</math>
- प्रश्ननिर्माणम् पूर्णवाक्यात्मकाः <math>4\times1=4</math>
- अन्वयः अथवा भावार्थः पूर्णवाक्यात्मकाः <math>4 \times 1 = 4</math>
- घटनाक्रमानुसारं वाक्यलेखनम् पूर्णवाक्यात्मकाः <math>8 \times \frac{1}{2} = 4</math>
- प्रसङ्गानुकूलम् अर्थलेखनम् लघूत्तरात्मकाः <math>3\times1=3</math>
पूर्णभारः 30 वहाः
सम्पूर्णभारः - 80 बङ्काः
प्रस्नपत्र-प्रारूपम् / संरचना संस्कृतम्
विषय-कोर्-सङ्ख्या - 122
कक्षा - दशमी (2026-27)
प्रश्नप्रकारः प्रभानां सङ्घ्या विभाग- प्रतिप्रश्रम् धाइत्याद्धाः
सङ्ग्या वहुभार:
अति-सघूत्तरात्मकाः ? अहः <math>2+2+2=6</math> 3 <math>\frac{1}{2}</math> 3
अति-लघूत्तरात्मकाः 1 अट्टः <math>2 = 2</math> 1 1 2
बहुविकस्पालकाः 1 42 | 3+4+4+3+3=17 5 1 17
लष्तरालकाः 1 3 2+2+2+1+4+4+3+3=21 8 1 21
दीर्घोत्तरात्मकाः 1/2 43: <math>10+8=18</math> 2 <math>\frac{1}{2}</math> 9
दीर्घोत्तरात्मकाः 1 5+5+2+2+4+4=24 7 1 24
दीर्घोत्तरात्मकाः 2 अही <math>2=2</math> 1 2 4
आह्त्याद्धाः 80 4
Frequently asked questions
What are the four main sections of the Class 10 Sanskrit exam?
The four main sections are 'क' (अपठित-अवबोधनम् - Unseen Comprehension), 'ख' (रचनात्मक-कार्यम् - Creative Work), 'ग' (अनुप्रयुक्त-व्याकरणम् - Applied Grammar), and 'घ' (पठित-अवबोधनम् - Seen Comprehension).
How many marks are allocated to the Applied Grammar section?
The अनुप्रयुक्त-व्याकरणम् (Applied Grammar) section is allocated 25 marks.
What is the total marks for the Class 10 Sanskrit annual examination?
The total marks for the Class 10 Sanskrit annual examination are 80.
What does the 'रचनात्मक-कार्यम्' section include?
The 'रचनात्मक-कार्यम्' (Creative Work) section includes tasks like writing letters (formal or informal), picture description or essay writing, and translation from Hindi/English to Sanskrit.
What is the weightage of the 'पठित-अवबोधनम्' section?
The 'पठित-अवबोधनम्' (Seen Comprehension) section carries a weightage of 30 marks.
What are some topics covered under 'अनुप्रयुक्त-व्याकरणम्'?
Topics under 'अनुप्रयुक्त-व्याकरणम्' include सन्धिः (Sandhi), समासः (Samasa), प्रत्ययाः (Suffixes), वाच्यप्रकरणम् (Voice), समयः (Time), अव्ययपदानि (Indeclinables), and संशोधनकार्यम् (Correction).
CBSE Class 10 Sanskrit syllabus 2026-27. Last updated 10 Aug 2026.