CBSE Class 10 Sanskrit (Communicative) Syllabus 2026-27
CBSE Class 10 Sanskrit (Communicative) Session 2026-27. This syllabus focuses on developing the four core language skills: listening, speaking, reading, and writing. It aims to cultivate a global perspective, promote Indian languages, and improve Sanskrit communication through dialogue and idea exchange. The teaching approach encourages learning Sanskrit in Sanskrit, utilizing interactive methods like conversations, storytelling, debates, and competitions. The curriculum also supports intellectual, spiritual, and ethical growth, fostering an appreciation for Sanskrit literature and culture. The 80-mark theory exam is divided into four sections: Unseen Comprehension (10 marks), Creative Writing (15 marks), Applied Grammar (25 marks), and Seen Comprehension (30 marks).
Quick info
| Board | CBSE |
|---|---|
| Class | 10 |
| Subject | Sanskrit (Com) |
| Session | 2026-27 |
| Language | English |
| Type | Syllabus |
Syllabus PDF preview
Read page by page below. PDF is streamed from the official NCERT website — no download button on this page.
Full document text
संस्कृतम् (सम्प्रेषणात्मकम्)
विषय-कोड्-सङ्ख्या - 119
कक्षा - दशमी (2026-27) पाठ्यक्रमः परीक्षानिर्देशाश्च
या अन्तस्स्थले विद्यमानान् विविधविचारान् भावान् विविधाः अनुभूतीः च सार्थकैः ध्वनिभिः लिखितैः सङ्केतैः च प्रकटयति व्यक्तीकरोति सा भाषा। वस्तुतः भाषा अभिप्रायप्रकटनस्यैव विशिष्टं साधनं वर्तते। समाजे जनानां परस्परं भावग्रहणाय, भावविनिमयाय भावावबोधनाय च भाषा एव सरलतमं स्पष्टतमं च साधनं विद्यते। संसारे द्विसहस्राधिकभाषाः अधुना जनैः प्रयुज्यन्ते यासु गीर्वाणभाषा देववाणी संस्कृतभाषा प्राचीनतमा समृद्धा चास्ति। अस्यामेव भाषायां चतुर्भिः वेदैः षड्वेदाङ्गैः च सुसम्पन्नाः चतुर्दशविद्याः, विज्ञानम्, आयुर्वेदः, गणितं योगशास्त्रादयश्च ग्रन्थाः सुनिबद्धाः विद्यन्ते । एतेन अनुमातुं शक्यते यत् संस्कृतं केवलं भावप्रकटीकरणस्य विचारविनिमयस्य च माध्यमः एव न अपितु एकं विशिष्टं जीवनदर्शनम् अपि विद्यते । इतिहासः प्रमाणमत्र यत् सृष्टेः आदितः अद्यावधिः यत् शिक्षणं ज्ञानविज्ञानं च अस्ति तत् सर्वं अस्यां भाषायामेव अतीव वैज्ञानिकविधिना सन्निहितम् अस्ति। मनसः गहनातिगहनभावानां विविधविचाराणां च स्पष्टतया प्रकटीकरणार्थं संस्कृतं विना अन्यत्र नैव विद्यते वैशिष्ट्यम्। भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम् अस्ति ।
संस्कृतस्य भाषावैज्ञानिकत्त्वम् - ऐतिहासिक-वर्णनात्मक-तुलनात्मकाध्ययन-द्वारा भाषायाः प्रकृतेः
विकासोत्पत्तेः संरचनायाः अध्ययनपूर्वकं सर्वेषां विषयाणां सैद्धान्तिकः निर्णयः भाषाविज्ञानेन क्रियते। भाषाविज्ञान- नामकशास्त्रे शब्दानाम् उत्पत्तिः, वाक्यानां संरचना इत्यादीनां विषयाणां विचारः क्रियते। भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः सह अस्ति । एवं भाषाविज्ञाने ध्वनेः, ध्वनि-उच्चारणोपयोगिनां स्वरयन्त्रमुखजिह्नादि-अङ्गानां प्रकृति-प्रत्ययादीनां, संज्ञासर्वनाम-क्रिया-विशेषणादीनां नामाख्यात-उपसर्जननिपातानां पदपदार्थविषयकाणां विकारादीनां विकारमूलककारकाणाम् अन्येषां विविधविषयाणाञ्च अध्ययनं क्रियते। भाषाविज्ञाने संस्कृतभाषा- विषयक-वर्णोत्पत्ति-सिद्धान्तस्य अतीव वैज्ञानिकं निरूपणं कृतं वर्तते।
विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति । प्रायः सर्वासु भाषासु संस्कृतपरकशब्दाः उपलभ्यन्ते । संस्कृतभाषा भारतीयभाषाणां जननी इति कथ्यते। सर्वासु भारतीयभाषासु संस्कृतभाषा अन्तर्लीना अस्ति इति सर्वे अङ्गीकुर्वन्ति ।
भारतदेशः बहुभाषी देशोऽस्ति। अस्मिन् देशे अनेकतायाम् एकतावर्धिनी भाषेयं सामाजिकसमरसतायै जीवनविकासाय च आवश्यकी वर्तते। संस्कृतस्य सांस्कृतिकं महत्त्वं वर्णयन्तः विद्वांसः कथयन्ति “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा, संस्कृतिमूलं संस्कृतम्, साहित्यं संस्कृतिवाहकञ्च इति।” एषा संस्कृतिः न केवलं भारतस्य अपि तु विश्वस्य मुकुटायमाना अस्ति। उक्तं च-
सत्यमहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिः सुखधात्री भारतीया हि संस्कृतिः॥
संस्कृतस्य व्यापकत्वं ज्ञायते अनेन पद्येन -
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकलाः कलाः।
संस्कृते सकलं ज्ञानं संस्कृते किन्न विद्यते॥
एवं संस्कृतभाषा परिनिष्ठिता, दोषरिहता, सरला, गभीरा, यथार्था वैज्ञानिकी च भाषा अस्ति। सम्प्रति युगेऽस्मिन् प्रमुखैः उद्देश्यैः संस्कृतभाषा शिक्षणीया अस्ति। 1
शिक्षणोद्देश्यानि -
वसुधैव-कुटुम्बकम् इति भावनाविकासः।
- भारतीयभाषाणां संरक्षणम्।
- ं संस्कृतभाषया सम्प्रेषणकौशलविकासः ।
- परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
- संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
- श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक-कौशलानां विकासः।
- बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
- मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च ।
- भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
- आत्मानुशासनसंस्थापनम् ।
- भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः ।
संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः ।
- मानवजीवनस्य विकासपूर्वकं कल्याणम्।
संस्कृतभाषया छात्राणां सर्वविधविकासः ।
शिक्षणप्रविधयः -
- ं संस्कृतमाध्यमेन सम्भाषणविधिना शनैः शनैः संस्कृत-शिक्षणं सम्भविष्यति । गतिवर्धनाय संस्कृताध्यापकैः धैर्येण स्वकीयाध्यापन-कार्यक्रमाणां नियोजनम् । रुचिकरभाषाभ्यासेन भाषिकोपलब्धिः । भाषिकाभ्यासाय वार्तालाप-कथाश्रवण-वादविवाद-संवाद-वर्णनपरकप्रतियोगिताभिः भाषाशिक्षणं कारियतुं शक्यते।
- विभिन्नप्रामाणिकसंस्थानां कार्यक्रमाः साहित्यसामग्र्यश्च प्रयुज्य उत्तमशिक्षणं कर्तुं शक्यते ।
- ं संस्कृतभाषया उपलब्ध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः ।
- विभिन्नपाठ्यसामग्रीद्वारा शिक्षकः स्वकीयं शिक्षणकार्यं रुचिकरं कर्तुं शक्नोति।
- भाषाशिक्षकः छात्रान् स्नेहपूर्वकम् (आत्मीयभावेन) पाठयेत्।
- अद्यतनपूर्वकं साहित्यकोश-शब्दकोश-सन्दर्भग्रन्थानां सहायतया छात्राणां तत्परतावर्धनम्।
- प्राचीनार्वाचीनयोर्मध्ये समन्वयस्थापनद्वारा नूतनशिक्षणविधिभिश्च संस्कृतशिक्षणम्।
- सङ्गणकमाध्यमेन अन्तर्जाले विद्यमानसामग्रीभिश्च संस्कृतशिक्षणम्।
कौशलानि-
ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक- लक्षिताधिगमनविशेषाः।
- श्रवणकौशलम् – भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम् । अस्य साधनानि- गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि ।
- भाषणकौशलम् - भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्। वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
- पठनकौशलम् – भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम् । (अर्थग्रहणपूर्वकं स्पष्टरूप- वाचनम् इत्यर्थः)
- लेखनकौशलम् - भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्। (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
2
संस्कृतम् (सम्प्रेषणात्मकम्)
विषय-कोड्-सङ्ख्या - 119
कक्षा - दशमी (2026-27)
आहत्य-अङ्काः - 80+20
वार्षिकमूल्याङ्कनाय निर्मिते प्रश्नपत्रे चत्वारः भागाः भविष्यन्ति –
‘क’ भागः अपठितावबोधनम् 10 अङ्काः
‘ख’ भागः रचनात्मककार्यम् 15 अङ्गाः
‘ग’ भागः अनुप्रयुक्तव्याकरणम् 25 अङ्गाः
‘घ’ भागः पठितावबोधनम् 30 अङ्गाः
भागानुसारं विषयाः अङ्कविभाजनं च
80 अङ्काः
क्र. सं. विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ भागः
10 अङ्गाः
- एकः गद्यांशः (80-100) शब्दपरिमितः) अति-लघूत्तरात्मकौ <math>2\times1=2</math> पूर्णवाक्यात्मकौ <math>2 \times 2 = 4</math> शीर्षकम् (लघूत्तरात्मकः) <math>1 \times 1 = 1</math> भाषिककार्यम् (बहुविकल्पात्मकाः) <math>3\times1=3</math>
पूर्णभारः 10 अङ्गाः
‘ख’ भागः
15 अङ्गाः
- औपचारिकम् अथवा अनौपचारिकं पत्रम् निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math> (मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णं पत्रं लेखनीयम्)
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम् पूर्णवाक्यात्मकः <math>5\times1=5</math>
- कथापूर्तिः/ संवादपूर्तिः निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math> (मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णः संवादः लेखनीयः / पूर्णा कथा लेखनीया)
पूर्णभारः 15 अङ्गाः 3
‘ग’ भागः अनुप्रयुक्तव्याकरणम् 25 अङ्गाः
- सन्धयः लघूत्तरात्मकाः <math>4\times1=4</math>
- समासाः बहुविकल्पात्मकाः <math>4\times1=4</math>
- प्रत्ययाः बहुविकल्पात्मकाः <math>4\times1=4</math>
- वाच्यपरिवर्तनम् लघूत्तरात्मकाः <math>3\times1=3</math>
- समय: लघूत्तरात्मकाः <math>3\times1=3</math>
- अव्ययानि लघूत्तरात्मकाः <math>4\times1=4</math>
- अशुद्धि-संशोधनम् बहुविकल्पात्मकाः <math>3\times1=3</math> पूर्णभारः 25 अङ्गाः ‘घ’ भागः पठितावबोधनम् 30 अङ्गाः
- गद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2\times1=2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- पद्यम् (श्लोकः/ श्लोकौ) अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2\times1=2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- नाट्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2 \times 1 = 2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- प्रश्ननिर्माणम् पूर्णवाक्यात्मकाः <math>5\times1=5</math>
- अन्वयः अथवा भावार्थः (रिक्तस्थानपूर्तिमाध्यमेन) निबन्धात्मकः <math>4 \times \frac{1}{2} = 2</math>
- प्रसङ्गानुसारम् अर्थचयनम् बहुविकल्पात्मकाः <math>4 \times 1 = 4</math>
- पाठाधारित-कथापूर्तिः निबन्धात्मकः <math>8 \times \frac{1}{2} = 4</math> (मञ्जूषापदसहायतया रिक्तस्थानपूर्तिः) पूर्णभारः ३० अङ्गाः सम्पूर्णभारः 80 अङ्गाः
4
Frequently asked questions
What are the main objectives of the Class 10 Sanskrit (Communicative) syllabus?
The syllabus aims to develop communication skills, foster the 'Vasudhaiva-Kutumbakam' spirit, promote Indian languages, enhance intellectual and ethical knowledge, and cultivate an appreciation for Sanskrit literature and culture.
What are the four linguistic skills emphasized in the syllabus?
The four linguistic skills emphasized are listening (Shravan), speaking (Bhashan), reading (Pathan), and writing (Lekhan).
How is the Class 10 Sanskrit (Communicative) exam structured?
The exam is divided into four sections: Unseen Comprehension, Creative Writing, Applied Grammar, and Seen Comprehension, with a total of 80 marks for the theory paper.
What topics are covered under Applied Grammar?
Applied Grammar includes Sandhi, Samas, Pratyaya, Change of Voice, Time, Avyaya, and Error Correction.
What types of creative writing tasks are included in the syllabus?
Creative writing tasks include writing formal or informal letters, picture description or essay writing, and story or dialogue completion, often with the help of a 'manjusha' (word box).
How is the Seen Comprehension section assessed?
The Seen Comprehension section assesses understanding of prose, poetry, and drama through various question types like short answers, long answers, linguistic tasks, question formation, Anvay/Bhavarth, contextual meaning selection, and text-based story completion.
CBSE Class 10 Sanskrit (Com) syllabus 2026-27. Last updated 10 Aug 2026.