CBSE Class 12 Sanskrit Core Syllabus 2026-27
The CBSE Class 12 Sanskrit Core Syllabus for the 2026-27 session (Subject Code: 322) outlines the curriculum and examination guidelines. The annual examination is worth 80 marks, with an internal assessment of 20 marks. The question paper is divided into five sections: Section 'क' (Unseen Passage) carries 10 marks, Section 'ख' (Creative Writing) carries 15 marks, Section 'ग' (Applied Grammar) carries 20 marks, and Section 'घ' (Textual Comprehension and Introduction to Sanskrit Literary History) carries 35 marks. Section 'घ' includes comprehension of prose, poetry, and drama, along with questions on literary history, covering topics like Mahakavyas, Gadyakavyas, and dramatic elements. The syllabus emphasizes the development of linguistic skills and an understanding of Sanskrit's cultural significance.
Quick info
| Board | CBSE |
|---|---|
| Class | 12 |
| Subject | Sanskrit Core |
| Session | 2026-27 |
| Language | English |
| Type | Syllabus |
Syllabus PDF preview
Read page by page below. PDF is streamed from the official NCERT website — no download button on this page.
Full document text
संस्कृतम् (केन्द्रिकम्)
विषय-कोड्-सङ्ख्या - 322
कक्षा –
पाठ्यक्रमः परीक्षानिर्देशाश्च
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा, मानवः स्वमनसि विद्यमानान् विचारान् भावनाः अनुभूतिं च अर्थयुक्तैः ध्वनिभिः लिखितसङ्केतैः च अभिव्यक्तयति सा भाषा। भाषा अभिप्रायप्रकटनस्य साधनम्। वस्तुतः लोके द्वयोः मनुष्ययोः मध्ये परस्परम् अवबोधनाय, भावग्रहणाय, भावविनिमयाय च भाषया विना न अन्यत् स्पष्टतमं सरलतमं च साधनं विद्यते । लोके बहव्यः भाषाः सन्ति यासु संस्कृतभाषा अतिप्राचीनतमा समृद्धा च अस्ति । संस्कृतभाषायाम् एव सन्ति ऋग्यजुस्सामाथर्वाः चत्वारः वेदाः, शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः कल्पः चेति षडङ्गानि, चतुर्दशविद्याः, विज्ञानम्, आयुर्वेदः, योगशास्त्रादयः ग्रन्थाः। अतः संस्कृतं केवलं भाषा न अपितु किञ्चन जीवनदर्शनम् इति। इयं विद्या (भाषा) भारतीयानां प्रतिष्ठात्मिका कामधेनुः समस्तज्ञानप्रदात्री, ऐक्यप्रदात्री, धर्मार्थकाममोक्षप्रदात्री च अस्ति। सृष्टेः आदितः अद्यावधिः यत् शिक्षणं ज्ञानविज्ञानं च अस्ति तत् सर्वं अस्यां भाषायामेव सन्निहितम् अस्ति । अतिसूक्ष्मभावनां प्रकटियतुं स्पष्टीकर्तुं संस्कृतं विना नैव अन्यत्र विद्यते सामर्थ्यम् । भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम् अस्ति ।
संस्कृतस्य भाषावैज्ञानिकत्त्वम् - ऐतिहासिक-वर्णनात्मक-तुलनात्मकाध्ययन-द्वारा भाषायाः प्रकृतः
विकासोत्पत्तेः संरचनायाः अध्ययनपूर्वकं सर्वेषां विषयाणां सैद्धान्तिकः निर्णयः भाषाविज्ञानेन क्रियते। भाषाविज्ञान- नामकशास्त्रे शब्दानाम् उत्पत्तिः, वाक्यानां संरचना इत्यादीनां विषयाणां विचारः क्रियते। भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः सह अस्ति । एवं भाषाविज्ञाने ध्वनेः, ध्वनि-उच्चारणोपयोगिनां स्वरयन्त्रमुखजिह्नादि-अङ्गानां प्रकृति-प्रत्ययादीनां, संज्ञासर्वनाम-क्रिया-विशेषणादीनां नामाख्यात-उपसर्जननिपातानां पदपदार्थविषयकानां विकारादीनां विकारमूलककारकाणाम् अन्येषां विविधविषयाणाञ्च अध्ययनं क्रियते । भाषाविज्ञाने संस्कृतभाषा-विषयक- वर्णोत्पत्ति-सिद्धान्तस्य अतीव वैज्ञानिकं निरूपणं कृतं वर्तते।
विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति । प्रायः सर्वासु भाषासु संस्कृतपरकशब्दाः उपलभ्यन्ते । संस्कृतभाषा भारतीयभाषाणां जननी इति कथ्यते। सर्वासु भारतीयभाषासु संस्कृतभाषा अन्तर्लीना अस्ति इति सर्वे अङ्गीकुर्वन्ति ।
भारतदेशः बहुभाषी देशोऽस्ति। अस्मिन् देशे अनेकतायाम् एकतावर्धिनी भाषेयं सामाजिकसमरसतायै जीवनविकासाय च आवश्यकी वर्तते। संस्कृतस्य सांस्कृतिकं महत्त्वं वर्णयन्तः विद्वांसः कथयन्ति “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा, संस्कृतिमूलं संस्कृतम्, साहित्यं संस्कृतिवाहकञ्च इति।” एषा संस्कृतिः न केवलं भारतस्य अपि तु विश्वस्य मुकुटायमाना अस्ति । उक्तं च -
सत्यमहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिः सुखधात्री भारतीया हि संस्कृतिः॥
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकलाः कलाः।
संस्कृते सकलं ज्ञानं संस्कृते किन्न विद्यते॥
एवं संस्कृतभाषा परिनिष्ठिता, दोषरहिता, सरला, गभीरा, यथार्था वैज्ञानिकी च भाषा अस्ति। सम्प्रति युगेस्मिन् प्रमुखैः उद्देश्यैः संस्कृतभाषा शिक्षणीया अस्ति।
शिक्षणोद्देश्यानि –
वसुधैव-कुटुम्बकम् इति भावनाविकासः।
- भारतीयभाषाणां संरक्षणम्।
- ं संस्कृतभाषया सम्प्रेषणकौशलविकासः ।
- परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
- संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
- श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक-कौशलानां विकासः।
- बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
- मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च।
- भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
- आत्मानुशासनसंस्थापनार्थम्
- भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः ।
परस्परं वार्तालापमाध्यमेन भावविनिमयः।
- ं संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः ।
- मानवजीवनस्य विकासपूर्वकं कल्याणम्।
संस्कृतभाषया छात्राणां सर्वविधविकासः।
शिक्षणप्रविधयः -
संस्कृतमाध्यमेन सम्भाषणविधिना शनैः शनैः संस्कृतिशक्षणं सम्भविष्यति । गतिवर्धनाय संस्कृताध्यापकैः धैर्येण स्वकीयाध्यापन-कार्यक्रमाणां नियोजनम्। रुचिकरभाषाभ्यासेन भाषिकोपलब्धिः। भाषिकाभ्यासाय वार्तालाप-कथाश्रवण-वादविवाद-संवाद-वर्णनपरकप्रतियोगिताभिः भाषाशिक्षणं कारियतुं शक्यते ।
- विभिन्नप्रामाणिकसंस्थानां कार्यक्रमाः साहित्यसामग्र्यश्च प्रयुज्य उत्तमशिक्षणं कर्तुं शक्यते ।
- संस्कृतभाषया उपलब्ध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
- विभिन्नपाठ्यसामग्रीद्वारा शिक्षकः स्वकीयं शिक्षणकार्यं रुचिकरं कर्तुं शक्नोति।
- भाषाशिक्षकः छात्रान् स्नेहपूर्वकम् (आत्मीयभावेन) पाठयेत्।
- अद्यतनपूर्वकं साहित्यकोश-शब्दकोश-सन्दर्भग्रन्थानां सहायतया छात्राणां तत्परतावर्धनम् ।
- प्राचीनार्वाचीनयोर्मध्ये समन्वयस्थापनद्वारा नूतनशिक्षणविधिभिश्च संस्कृतशिक्षणम्।
कौशलानि-
- श्रवणकौशलम् - भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम्। अस्य साधनानि - गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि ।
- भाषणकौशलम् - भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्। वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
- पठनकौशलम् - भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम्। (अर्थग्रहणपूर्वकं स्पष्टरूप- वाचनम् इत्यर्थः)
- लेखनकौशलम् - भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्। (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
- ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक- लक्षिताधिगमनविशेषाः।
संस्कृतम् (केन्द्रिकम्)
विषय-कोड्-सङ्ख्या - 322
कक्षा - द्वादशी 2026-27
आहत्य-अङ्काः - 80+20
वार्षिकमूल्याङ्कनाय निर्मिते प्रश्नपत्रे भागपञ्चकं भविष्यति –
‘क’ भागः अपठितावबोधनम् 10 अङ्काः
‘ख’ भागः रचनात्मककार्यम्
15 अङ्गाः
‘ग’ भागः अनुप्रयुक्तव्याकरणम्
20 अङ्गाः
‘घ’ भागः
35 अङ्गाः
- पठितावबोधनम् (25 अङ्काः)
- संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः (10 अङ्काः)
भागानुसारं विषयाः अङ्कविभाजनञ्च
80 अङ्गाः
क्र. सं. विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ भागः
अपठितावबोधनम्
- अपठितः गद्यांशः (100-120 शब्दपरिमितः) अति-लघूत्तरात्मकौ <math>2\times1=2</math> पूर्णवाक्यात्मकौ <math>2\times2=4</math> शीर्षकम् (लघूत्तरात्मकः) <math>1\times1=1</math> भाषिककार्यम् (बहुविकल्पात्मकाः) <math>3\times1=3</math>
पूर्णभारः 10 अङ्गाः
‘ख’ भागः
रचनात्मककार्यम्
- पत्रम् निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math>
- चित्राधारिता वाक्यसंरचना (25-30 शब्दपरिमिता) निबन्धात्मकः 5 अथवा अनुच्छेदलेखनम् (25-30 शब्दपरिमितम्)
- लघुकथापूर्तिः निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math> अथवा
वार्तालापे एकपक्षपूरणम् <math>5\times1=5</math>
पूर्णभारः 15 अङ्काः
‘ग’ भागः
अनुप्रयुक्तव्याकरणम्
- सन्धिः लघूत्तरात्मकाः <math>4\times1=4</math>
- समासः बहुविकल्पात्मकाः <math>4\times1=4</math>
- प्रत्ययाः बहुविकल्पात्मकाः <math>4\times1=4</math>
- उपपदविभक्तिप्रयोगः बहुविकल्पात्मकाः <math>4\times1=4</math>
- वाच्यम् लघूत्तरात्मकाः <math>4\times1=4</math>
पूर्णभारः 20 अङ्गाः
‘घ’ भागः
(i) पठितावबोधनम्
- गद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2\times1=2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- पद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2\times1=2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- नाट्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
पूर्णवाक्यात्मकौ <math>2 \times 1 = 2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- भावार्थे रिक्तस्थानपूर्तिः अथवा शुद्धभावार्थचयनम् निबन्धात्मकः / लघूत्तरात्मकः <math>3\times1=3</math>
- अन्वयः निबन्धात्मकः <math>3\times1=3</math>
- प्रदत्तवाक्यांशानां सार्थकं संयोजनम् लघूत्तरात्मकः <math>4\times1=4</math> अथवा प्रदत्तपङ्किषु प्रसङ्गानुसारं पदानाम् अर्थलेखनम्
पूर्णभारः 25 अङ्गाः
‘घ’ भागः
(ii) संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः
- भास्वतीपाठ्यपुस्तकस्थ-पाठानां सन्दर्भग्रन्थाः, लघूत्तरात्मकाः <math>3\times1=3</math> रचयितारः तेषां रचनाः च (1+1+1)
- महाकाव्यम्, गद्यकाव्यम्, चम्पूकाव्यम् लघूत्तरात्मकाः <math>3\times1=3</math>
- नाट्यतत्त्वानां मुख्यविशेषतानां परिचयः लघूत्तरात्मकाः <math>4\times1=4</math>
पूर्णभारः 10 अङ्गाः
सम्पूर्णभारः 80 अङ्गाः
Frequently asked questions
What is the total marks for the Class 12 Sanskrit Core exam?
The annual examination for Class 12 Sanskrit Core is worth 80 marks, with an additional 20 marks for internal assessment.
How is the Class 12 Sanskrit Core question paper structured?
The question paper is divided into four main sections: 'क' (Unseen Passage), 'ख' (Creative Writing), 'ग' (Applied Grammar), and 'घ' (Textual Comprehension and Introduction to Sanskrit Literary History).
What topics are covered under Applied Grammar (Section 'ग')?
Section 'ग' covers Sandhi, Samas, Pratyaya, Upapadavibhakti Prayog, and Vachyam.
What does the 'Creative Writing' section include?
The 'Creative Writing' section includes tasks like writing a letter, constructing sentences based on a picture or writing a paragraph, and completing a story or filling in a dialogue.
What is included in the 'Introduction to Sanskrit Literary History' part of the syllabus?
This part covers contexts of lessons from the textbook, authors and their works, types of poetry (Mahakavya, Gadyakavya, Champukavya), and the main characteristics of dramatic elements.
What is the weightage of the Textual Comprehension section?
The Textual Comprehension section, which includes prose, poetry, and drama, carries a total of 25 marks.
CBSE Class 12 Sanskrit Core syllabus 2026-27. Last updated 10 Aug 2026.