CBSE Class 9 Sanskrit Syllabus 2026-27
This syllabus for CBSE Class 9 Sanskrit for the 2026-27 session outlines the curriculum and examination guidelines. It emphasizes Sanskrit as a foundational language for Indian culture and knowledge, promoting its scientific nature and importance in national education policy. The syllabus details learning objectives, including effective communication, cultural preservation, and holistic development. Teaching methodologies focus on conversational approaches, use of audio-visual aids, and engaging activities like dialogues and story-telling. Key skills covered are listening, speaking, reading, and writing, along with cognitive and analytical development. The examination pattern includes four sections: Unseen Comprehension (10 marks), Creative Writing (15 marks), Applied Grammar (25 marks), and Seen Comprehension (30 marks), totaling 80 marks for the annual examination, with 20 marks for internal assessment.
Quick info
| Board | CBSE |
|---|---|
| Class | 9 |
| Subject | Sanskrit |
| Session | 2026-27 |
| Language | English |
| Type | Syllabus |
Syllabus PDF preview
Read page by page below. PDF is streamed from the official NCERT website — no download button on this page.
Full document text
संस्कृतम्
कक्षा - नवमी (2026-27)
पाठ्यक्रमः परीक्षानिर्देशाश्च
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा। मानवः स्वमनसि विद्यमानान्विचारान् भावनाः अनुभूतिं च अर्थयुक्तैः ध्वनिभिः लिखितसङ्केतैः च व्यक्तीकरोति सा भाषा। भाषा अभिप्रायप्रकटनस्य साधनम्। वस्तुतः लोके द्वयोः मनुष्ययोः मध्ये परस्परम् अवबोधनाय, भावग्रहणाय, भावविनिमयाय च भाषया विना न अन्यत् स्पष्टतमं सरलतमं च साधनं विद्यते। लोके बहव्यः भाषाः सन्ति यासु संस्कृतभाषा प्राचीनतमा समृद्धा च अस्ति। संस्कृतभाषायाम् एव सन्ति ऋग्यजुस्सामाथर्वाः इति चत्वारः वेदाः, शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः कल्पः चेति षडङ्गानि, चतुर्दशविद्याः, विज्ञानम्, आयुर्वेदः, योगशास्त्रादयः ग्रन्थाः । अतः संस्कृतं केवलं भाषा न अपितु किञ्चन जीवनदर्शनम् इति वर्तते । इयं विद्या (भाषा) भारतीयानां प्रतिष्ठात्मिका कामधेनुः समस्तज्ञानप्रदात्री, ऐक्यप्रदात्री, धर्मार्थकाममोक्षप्रदात्री च अस्ति । सृष्टेः आदितः अद्यावधिः यत् शिक्षणं ज्ञानविज्ञानं च अस्ति तत् सर्वम् अस्यां भाषायामेव सन्निहितम् अस्ति । अतिसूक्ष्मभावनां प्रकटयितुं स्पष्टीकर्तुं संस्कृतं विना नैव अन्यत्र विद्यते सामर्थ्यम् । भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम् अस्ति ।
संस्कृतस्य भाषावैज्ञानिकत्त्वम् – ऐतिहासिक-वर्णनात्मक-तुलनात्मकाध्ययन-द्वारा भाषायाः प्रकृतेः विकासोत्पत्तेः संरचनायाः अध्ययनपूर्वकं सर्वेषां विषयाणां सैद्धान्तिकः निर्णयः भाषाविज्ञानेन क्रियते। भाषाविज्ञान-नामकशास्त्रे शब्दानाम् उत्पत्तिः, वाक्यानां संरचना इत्यादीनां विषयाणां विचारः क्रियते। भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः सह अस्ति। एवं भाषाविज्ञाने ध्वनेः, ध्वनि-उच्चारणोपयोगिनां स्वरयन्त्रमुखजिह्नादि-अङ्गानां प्रकृति-प्रत्ययादीनां, संज्ञासर्वनाम- क्रिया-विशेषणादीनां नामाख्यातोपसर्जननिपातानां पदपदार्थविषयकानां विकारादीनां विकारमूलककारकाणाम् अन्येषां विविधविषयाणाञ्च अध्ययनं क्रियते। भाषाविज्ञाने संस्कृतभाषा-विषयक-वर्णोत्पत्ति-सिद्धान्तस्य अतीव वैज्ञानिकं निरूपणं कृतं वर्तते ।
राष्ट्रियशिक्षानीतौ (२०२०) इत्यत्र भाषा मानवसशक्तीकरणस्य आधारः साधनं वा अङ्गीकृतं वर्तते। भारतस्य परमविशिष्टस्य गतज्ञानवैभवस्य पुनः प्रतिष्ठापनमपि राष्ट्रियशिक्षानीतेः २०२० इत्यस्याः लक्ष्यमस्ति । एतदर्थं संस्कृतभाषयाः शिक्षणस्य महत्त्वम् इतोऽप्यधिकं भवति । प्रायः सर्वासु भाषासु संस्कृतपरकशब्दाः उपलभ्यन्ते । संस्कृतभाषा भारतीयभाषाणां जननी इति कथ्यते। सर्वासु भारतीयभाषासु संस्कृतभाषा अन्तर्लीना अस्ति इति सर्वे अङ्गीकुर्वन्ति।
भारतदेशः बहुभाषी देशोऽस्ति । अस्मिन् देशे अनेकतायाम् एकतावर्धिनी भाषेयं सामाजिकसमरसतायै जीवनविकासाय च आवश्यकी वर्तते। संस्कृतस्य सांस्कृतिकं महत्त्वं वर्णयन्तः विद्वांसः कथयन्ति "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा, संस्कृतिमूलं संस्कृतम्, साहित्यं संस्कृतिवाहकञ्च इति।” एषा संस्कृतिः न केवलं भारतस्य अपि तु विश्वस्य मुकुटायमाना अस्ति। उक्तं च -
सत्यमहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिः सुखधात्री भारतीया हि संस्कृतिः॥
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकलाः कलाः।
संस्कृते सकलं ज्ञानं संस्कृते किन्न विद्यते॥
एवं संस्कृतभाषा परिनिष्ठिता, दोषरिहता, सरला, गभीरा, यथार्था वैज्ञानिकी च भाषा अस्ति। सम्प्रति युगेऽस्मिन् प्रमुखैः उद्देश्यैः संस्कृतभाषा शिक्षणीया अस्ति।
शिक्षणोद्देश्यानि –
भाषायाः प्रभावपूर्णसम्प्रेषणाय विविधानां मौखिकलेखनाभ्यासानां नवमाध्यमानां च प्रयोगः करणीयः भविष्यति । 1
यथा - चर्चा भाषणानि सन्दर्शनानि निबन्धाः पत्रलेखनं विद्युन्मानपत्रं (email) दृश्यश्रव्यमाध्यमानि च इत्यादयः वर्तन्ते।
वसुधैव-कुटुम्बकम् इति भावनाविकासः।
भारतीयभाषाणां संरक्षणम्।
संस्कृतभाषया सम्प्रेषणकौशलविकासः ।
- परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक-कौशलानां विकासः।
बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
निर्णयात्मिकायाः बुद्धेः विकासः ।
तार्किकचिन्तनेन सह निर्भीकवक्तृत्वकौशलस्य विकासः।
मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च ।
भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
आत्मानुशासनसंस्थापनार्थं शिक्षणम् ।
सर्जनात्मकचिन्तनकौशलस्य विकासः।
सामाजिकचेतनायाः विकासः।
- भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः।
परस्परं वार्तालापमाध्यमेन भावविनिमयः।
संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः।
- मानवजीवनस्य विकासपूर्वकं कल्याणम्।
संस्कृतभाषया छात्राणां सर्वविधविकासः।
शिक्षणप्रविधयः -
संस्कृतमाध्यमेन सम्भाषणविधिना शनैः शनैः संस्कृतिशक्षणं सम्भविष्यति । गतिवर्धनाय संस्कृताध्यापकैः धैर्येण स्वकीयाध्यापन-कार्यक्रमाणां नियोजनम् । रुचिकरभाषाभ्यासेन भाषिकोपलब्धिः । भाषिकाभ्यासाय वार्तालाप- कथाश्रवण-वादविवाद-संवादादि-वर्णनपरकाभिः प्रतियोगिताभिः भाषाशिक्षणं कारियतुं शक्यते।
विभिन्नप्रामाणिकसंस्थानां कार्यक्रमाः साहित्यसामग्र्यश्च प्रयुज्य उत्तमशिक्षणं कर्तुं शक्यते ।
संस्कृतभाषया उपलब्ध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
आवश्यकतानुगुणं नवदृश्य-श्रव्य-सामग्री-निर्माण-माध्यमेन भाषायाः शिक्षणम्।
विभिन्नपाठ्यसामग्रीद्वारा शिक्षकः स्वकीयं शिक्षणकार्यं रुचिकरं कर्तुं शक्नोति ।
भाषाशिक्षकः छात्रान् स्नेहपूर्वकम् (आत्मीयभावेन) पाठयेत्।
अद्यतनपूर्वकं साहित्यकोश-शब्दकोश-सन्दर्भग्रन्थानां सहायतया छात्राणां तत्परतां रुचिवर्धनं च।
प्राचीनार्वाचीनयोर्मध्ये समन्वयस्थापनद्वारा नूतनशिक्षणविधिभिश्च संस्कृतशिक्षणम्।
कौशलानि-
- श्रवणकौशलम् – भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम् । अस्य साधनानि- गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि ।
2
भाषणकौशलम्- भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम् । वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
पठनकौशलम् – भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम् । (अर्थग्रहणपूर्वकं स्पष्टरूप-वाचनम् इत्यर्थः)
- लेखनकौशलम्- भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्। (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक-लक्षिताधिगमनविशेषाः ।
संस्कृतम्
कक्षा - नवमी (2026-27)
आहत्याङ्काः – 80+20
वार्षिकमूल्याङ्कनाय निर्मिते प्रश्नपत्रे चत्वारः खण्डाः भविष्यन्ति –
‘क’ खण्डः अपठितावबोधनम् 10 अङ्काः
‘ख’ खण्डः रचनात्मककार्यम् 15 अङ्गाः
‘ग’ खण्डः अनुप्रयुक्तव्याकरणम् 25 अङ्गाः
‘घ’ खण्डः पठितावबोधनम् ३० अङ्गाः
खण्डानुसारं विषयाः मूल्यभारः च
क्र. सं. विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ खण्डः
10 अङ्गाः
- एकः गद्यांशः (80-100) शब्दपरिमितः) अति-लघूत्तरात्मकौ <math>2\times1=2</math>
दीर्घोत्तरात्मकौ <math>2\times2=4</math>
शीर्षकम् (लघूत्तरात्मकः) <math>1\times1=1</math>
भाषिककार्यम् (बहुविकल्पात्मकाः) <math>3\times1=3</math>
10 अङ्काः
‘ख’ खण्डः
15 अङ्गाः
- सङ्केताधारितम् औपचारिकम् अथवा निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math> अनौपचारिकं पत्रलेखनम् (मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णं पत्रं लेखनीयम्)
- चित्रवर्णनम् अथवा अनुच्छेदलेखनम् निबन्धात्मकः 5
- संवादपूर्तिः / कथापूर्तिः निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math>
3
(मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णः संवादः / कथा लेखनीया) पूर्णभारः 15 अङ्काः
‘ग’ खण्डः अनुप्रयुक्तव्याकरणम् 25 अङ्गाः
- सन्धयः लघूत्तरात्मकाः. <math>3\times1=3</math>
- कारक-उपपदविभक्तयः बहुविकल्पात्मकाः <math>3\times1=3</math>
- शब्दरूपाणि बहुविकल्पात्मकाः. <math>3\times1=3</math>
- धातुरूपाणि बहुविकल्पात्मकाः. <math>3\times1=3</math>
- प्रत्ययाः बहुविकल्पात्मकाः <math>3\times1=3</math>
- समासः बहुविकल्पात्मकाः <math>3\times1=3</math>
- सङ्ख्या – १-१०० लघूत्तरात्मकाः <math>3\times1=3</math> (१-४ केवलं प्रथमा-विभक्तौ)
- उच्चारणस्थानानि लघूत्तरात्मकाः <math>4 \times \frac{1}{2} = 2</math>
- अव्ययानि लघूत्तरात्मकाः <math>4 \times \frac{1}{2} = 2</math>
पूर्णभारः 25 अङ्गाः
‘घ’ खण्डः पठितावबोधनम् 30 अङ्गाः
- गद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
दीर्घोत्तरात्मकौ <math>2\times1=2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- पद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
दीर्घोत्तरात्मकौ <math>2\times1=2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- नाट्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math>
दीर्घोत्तरात्मकौ <math>2\times1=2</math>
लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- प्रश्ननिर्माणम् दीर्घोत्तरात्मकः <math>5\times1=5</math>
- अन्वयः अथवा भावार्थः दीर्घोत्तरात्मकः <math>4\times1=4</math>
- पाठाधारित-कथापूर्तिः निबन्धात्मकः <math>6 \times \frac{1}{2} = 3</math> (मञ्जूषापदसहायतया रिक्तस्थानपूर्तिः)
- प्रसङ्गानुकूलम् अर्थचयनम् बहुविकल्पात्मकाः <math>3\times1=3</math>
पूर्णभारः 30 अङ्गाः
सम्पूर्णभारः 80 अङ्काः 4
Frequently asked questions
What is the total marks for the annual examination in Class 9 Sanskrit?
The total marks for the annual examination in Class 9 Sanskrit is 80, with an additional 20 marks for internal assessment.
What are the four main sections of the Class 9 Sanskrit exam paper?
The four main sections are 'क' (Unseen Comprehension), 'ख' (Creative Writing), 'ग' (Applied Grammar), and 'घ' (Seen Comprehension).
Which section carries the highest marks in the Class 9 Sanskrit exam?
Section 'घ' (Seen Comprehension) carries the highest marks with 30 marks.
What are the key language skills to be developed as per the syllabus?
The key language skills to be developed are listening (श्रवणकौशलम्), speaking (भाषणकौशलम्), reading (पठनकौशलम्), and writing (लेखनकौशलम्).
What is the role of Sanskrit in the National Education Policy 2020 mentioned in the syllabus?
The syllabus mentions that the National Education Policy 2020 recognizes Sanskrit as a means of human empowerment and aims to reinstate India's past knowledge and glory through its teaching.
What teaching methods are suggested for Sanskrit?
Suggested teaching methods include conversational approaches, using audio-visual aids, engaging in dialogues, story-telling, debates, and utilizing various authentic resources.
What is the weightage of Applied Grammar in the exam?
Applied Grammar (अनुप्रयुक्तव्याकरणम्) is allocated 25 marks in the examination.
CBSE Class 9 Sanskrit syllabus 2026-27. Last updated 10 Aug 2026.