CBSE Class 11 Sanskrit Core Syllabus 2026-27
CBSE Class 11 Sanskrit Core Session 2026-27. This syllabus focuses on Sanskrit as a vibrant language for expression, a treasure trove of ancient wisdom, and a gateway to understanding Indian culture. The curriculum is designed to enhance communication abilities, deepen appreciation for Indian languages and heritage, and cultivate spiritual and ethical values. Students will engage with unseen passages for comprehension, practice creative writing through letter composition and sentence building, and master applied grammar, including sandhi, pratyaya, verb and noun conjugations, case usage, voice modulation, and error correction. A significant part of the syllabus is dedicated to the history of Sanskrit literature, tracing its origins, development, Vedic texts, and the great epics, Ramayana and Mahabharata. The annual examination will carry 80 marks, complemented by 20 marks for internal assessment.
Quick info
| Board | CBSE |
|---|---|
| Class | 11 |
| Subject | Sanskrit Core |
| Session | 2026-27 |
| Language | English |
| Type | Syllabus |
Syllabus PDF preview
Read page by page below. PDF is streamed from the official NCERT website — no download button on this page.
Full document text
संस्कृतम् (केन्द्रिकम्)
विषय-कोड्-सङ्ख्या - 322
कक्षा - एकादशी 2026-27
पाठ्यक्रमः परीक्षानिर्देशाश्च
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा, मानवः स्वमनसि विद्यमानान् विचारान् भावनाः अनुभूतिं च अर्थयुक्तैः ध्वनिभिः लिखितसङ्केतैः च अभिव्यक्तयति सा भाषा। भाषा अभिप्रायप्रकटनस्य साधनम्। वस्तुतः लोके द्वयोः मनुष्ययोः मध्ये परस्परम् अवबोधनाय, भावग्रहणाय, भावविनिमयाय च भाषया विना न अन्यत् स्पष्टतमं सरलतमं च साधनं विद्यते । लोके बहव्यः भाषाः सन्ति यासु संस्कृतभाषा अतिप्राचीनतमा समृद्धा च अस्ति । संस्कृतभाषायाम् एव सन्ति ऋग्यजुस्सामाथर्वाः चत्वारः वेदाः, शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः कल्पः चेति षडङ्गानि, चतुर्दशविद्याः, विज्ञानम्, आयुर्वेदः, योगशास्त्रादयः ग्रन्थाः। अतः संस्कृतं केवलं भाषा न अपितु किञ्चन जीवनदर्शनम् इति। इयं विद्या (भाषा) भारतीयानां प्रतिष्ठात्मिका कामधेनुः समस्तज्ञानप्रदात्री, ऐक्यप्रदात्री, धर्मार्थकाममोक्षप्रदात्री च अस्ति। सृष्टेः आदितः अद्यावधिः यत् शिक्षणं ज्ञानविज्ञानं च अस्ति तत् सर्वं अस्यां भाषायामेव सन्निहितम् अस्ति । अतिसूक्ष्मभावनां प्रकटियतुं स्पष्टीकर्तुं संस्कृतं विना नैव अन्यत्र विद्यते सामर्थ्यम् । भारतीयं सर्वस्वं विश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम् अस्ति ।
संस्कृतस्य भाषावैज्ञानिकत्त्वम् - ऐतिहासिक-वर्णनात्मक-तुलनात्मकाध्ययन-द्वारा भाषायाः प्रकृतः
विकासोत्पत्तेः संरचनायाः अध्ययनपूर्वकं सर्वेषां विषयाणां सैद्धान्तिकः निर्णयः भाषाविज्ञानेन क्रियते। भाषाविज्ञान- नामकशास्त्रे शब्दानाम् उत्पत्तिः, वाक्यानां संरचना इत्यादीनां विषयाणां विचारः क्रियते। भाषाविज्ञानस्य सम्बन्धः सर्वेषां मानवानां भाषाभिः सह अस्ति । एवं भाषाविज्ञाने ध्वनेः, ध्वनि-उच्चारणोपयोगिनां स्वरयन्त्रमुखजिह्नादि-अङ्गानां प्रकृति-प्रत्ययादीनां, संज्ञासर्वनाम-क्रिया-विशेषणादीनां नामाख्यात-उपसर्जननिपातानां पदपदार्थविषयकानां विकारादीनां विकारमूलककारकाणाम् अन्येषां विविधविषयाणाञ्च अध्ययनं क्रियते । भाषाविज्ञाने संस्कृतभाषा-विषयक- वर्णोत्पत्ति-सिद्धान्तस्य अतीव वैज्ञानिकं निरूपणं कृतं वर्तते।
विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति । प्रायः सर्वासु भाषासु संस्कृतपरकशब्दाः उपलभ्यन्ते । संस्कृतभाषा भारतीयभाषाणां जननी इति कथ्यते। सर्वासु भारतीयभाषासु संस्कृतभाषा अन्तर्लीना अस्ति इति सर्वे अङ्गीकुर्वन्ति ।
भारतदेशः बहुभाषी देशोऽस्ति। अस्मिन् देशे अनेकतायाम् एकतावर्धिनी भाषेयं सामाजिकसमरसतायै जीवनविकासाय च आवश्यकी वर्तते। संस्कृतस्य सांस्कृतिकं महत्त्वं वर्णयन्तः विद्वांसः कथयन्ति “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा, संस्कृतिमूलं संस्कृतम्, साहित्यं संस्कृतिवाहकञ्च इति।” एषा संस्कृतिः न केवलं भारतस्य अपि तु विश्वस्य मुकुटायमाना अस्ति । उक्तं च -
सत्यमहिंसादिगुणैः श्रेष्ठा विश्वबन्धुत्वशिक्षिका।
विश्वशान्तिः सुखधात्री भारतीया हि संस्कृतिः॥
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकलाः कलाः।
संस्कृते सकलं ज्ञानं संस्कृते किन्न विद्यते॥
एवं संस्कृतभाषा परिनिष्ठिता, दोषरहिता, सरला, गभीरा, यथार्था वैज्ञानिकी च भाषा अस्ति। सम्प्रति युगेस्मिन् प्रमुखैः उद्देश्यैः संस्कृतभाषा शिक्षणीया अस्ति।
शिक्षणोद्देश्यानि –
वसुधैव-कुटुम्बकम् इति भावनाविकासः।
- भारतीयभाषाणां संरक्षणम्।
- ं संस्कृतभाषया सम्प्रेषणकौशलविकासः ।
- परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
- संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
- श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक-कौशलानां विकासः।
- बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
- मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च।
- भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
- आत्मानुशासनसंस्थापनार्थम्
- भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः ।
परस्परं वार्तालापमाध्यमेन भावविनिमयः।
- ं संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः ।
- मानवजीवनस्य विकासपूर्वकं कल्याणम्।
संस्कृतभाषया छात्राणां सर्वविधविकासः।
शिक्षणप्रविधयः -
संस्कृतमाध्यमेन सम्भाषणविधिना शनैः शनैः संस्कृतिशक्षणं सम्भविष्यति । गतिवर्धनाय संस्कृताध्यापकैः धैर्येण स्वकीयाध्यापन-कार्यक्रमाणां नियोजनम्। रुचिकरभाषाभ्यासेन भाषिकोपलब्धिः। भाषिकाभ्यासाय वार्तालाप-कथाश्रवण-वादविवाद-संवाद-वर्णनपरकप्रतियोगिताभिः भाषाशिक्षणं कारियतुं शक्यते ।
- विभिन्नप्रामाणिकसंस्थानां कार्यक्रमाः साहित्यसामग्र्यश्च प्रयुज्य उत्तमशिक्षणं कर्तुं शक्यते ।
- संस्कृतभाषया उपलब्ध-दृश्य-श्रव्य-सामग्री-माध्यमेन भाषाभ्यासः।
- विभिन्नपाठ्यसामग्रीद्वारा शिक्षकः स्वकीयं शिक्षणकार्यं रुचिकरं कर्तुं शक्नोति।
- भाषाशिक्षकः छात्रान् स्नेहपूर्वकम् (आत्मीयभावेन) पाठयेत्।
- अद्यतनपूर्वकं साहित्यकोश-शब्दकोश-सन्दर्भग्रन्थानां सहायतया छात्राणां तत्परतावर्धनम् ।
- प्राचीनार्वाचीनयोर्मध्ये समन्वयस्थापनद्वारा नूतनशिक्षणविधिभिश्च संस्कृतशिक्षणम्।
कौशलानि-
- श्रवणकौशलम् - भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम्। अस्य साधनानि - गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि ।
- भाषणकौशलम् - भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्। वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
- पठनकौशलम् - भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम्। (अर्थग्रहणपूर्वकं स्पष्टरूप- वाचनम् इत्यर्थः)
- लेखनकौशलम् - भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्। (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
- ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक- लक्षिताधिगमनविशेषाः।
संस्कृतम् (केन्द्रिकम्)
विषय-कोड्-सङ्ख्या - 322
कक्षा - एकादशी 2026-27
आहत्य-अङ्काः - 80+20
वार्षिकमूल्याङ्कनाय निर्मिते प्रश्नपत्रे चत्वारो भागाः भविष्यन्ति –
‘क’ भागः अपठिताबोधनम्
10 अङ्काः
‘ख’ भागः रचनात्मककार्यम्
15 अङ्गाः
‘ग’ भागः अनुप्रयुक्तव्याकरणम्
20 अङ्गाः
‘घ’ भागः
35 अङ्काः
- पठितावबोधनम् (25 अङ्काः)
- संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः (10 अङ्काः)
भागानुसारं विषयाः अङ्कविभाजनञ्च
80 अङ्गाः
क्र. सं. विषयाः प्रश्नप्रकाराः मूल्यभारः
‘क’ भागः अपठितावबोधनम्
- अपठितः गद्यांशः (100-120 शब्दपरिमितः) अति-लघूत्तरात्मकौ <math>2 \times 1 = 2</math> पूर्णवाक्यात्मकौ <math>2\times2=4</math> शीर्षकम् (लघूत्तरात्मकः) <math>1\times1=1</math> भाषिककार्यम् <math>3\times1=3</math> (बहुविकल्पात्मकाः) पूर्णभारः 10 अङ्गाः ‘ख’ भागः रचनात्मककार्यम्
- पत्रम् निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math>
- चित्राधारिता वाक्यसंरचना (25-30 शब्दपरिमिता) निबन्धात्मकः 5 अथवा अनुच्छेदलेखनम् (25-30 शब्दपरिमितम्)
- लघुकथापूर्तिः निबन्धात्मकः <math>10 \times \frac{1}{2} = 5</math> अथवा
वार्तालापे एकपक्षपूरणम् निबन्धात्मकः <math>5\times1=5</math>
पूर्णभारः 15 अङ्गाः
‘ग’ भागः
अनुप्रयुक्तव्याकरणम्
- सन्धिः लघूत्तरात्मकाः <math>3\times1=3</math>
- प्रत्ययाः बहुविकल्पात्मकाः <math>3\times1=3</math>
- शब्दरूपाणि बहुविकल्पात्मकाः <math>3\times1=3</math>
- धातुरूपाणि बहुविकल्पात्मकाः <math>3\times1=3</math>
- कारकोपपदविभक्तिप्रयोगः लघूत्तरात्मकाः <math>3\times1=3</math>
- वाच्यपरिवर्तनम् बहुविकल्पात्मकाः <math>2\times1=2</math>
- अशुद्धिसंशोधनम् बहुविकल्पात्मकाः <math>3\times1=3</math>
पूर्णभारः 20 अङ्गाः
‘घ’ भागः (i)
पठितावबोधनम्
- गद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2\times1=2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- पद्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2\times1=2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- नाट्यांशः अति-लघूत्तरात्मकौ <math>2 \times \frac{1}{2} = 1</math> पूर्णवाक्यात्मकौ <math>2\times1=2</math> लघूत्तरात्मकौ (भाषिककार्यम्) <math>2\times1=2</math>
- भावार्थलेखनम् अथवा शुद्धभावार्थचयनम् निबन्धात्मकः <math>3\times1=3</math>
- अन्वयः निबन्धात्मकः <math>3\times1=3</math>
- वाक्यांशानां सार्थकं संयोजनम् लघूत्तरात्मकाः <math>4\times1=4</math> अथवा
प्रसङ्गानुसारं पदानाम् अर्थलेखनम्। लघूत्तरात्मकाः
पूर्णभारः 25 अङ्गाः
‘घ’ भागः (ii) संस्कृत-साहित्येतिहासस्य सामान्यः परिचयः
- संस्कृतभाषायाः उद्भवः विकासश्च, पाठ्यपुस्तकस्थ- लघूत्तरात्मकाः <math>3\times1=3</math> पाठानां सन्दर्भग्रन्थाः रचयितारश्च
- वैदिकसाहित्यम् लघूत्तरात्मकाः <math>4\times1=4</math>
- रामायणम्, महाभारतम्, पुराणानि च लघूत्तरात्मकाः <math>3\times1=3</math>
पूर्णभारः 10 अङ्गाः
सम्पूर्णभारः 80 अङ्काः
Frequently asked questions
What is the subject code for Sanskrit Core in Class 11 for the 2026-27 session?
The subject code for Sanskrit Core (Kendrikam) in Class 11 for the 2026-27 session is 322.
What are the main sections of the Class 11 Sanskrit Core exam?
The exam is divided into four sections: 'क' (Unseen Comprehension), 'ख' (Creative Writing), 'ग' (Applied Grammar), and 'घ' (Seen Comprehension and Sanskrit Literature History).
How are marks distributed in the Class 11 Sanskrit Core exam?
The annual examination is for 80 marks, with Section 'क' worth 10 marks, Section 'ख' worth 15 marks, Section 'ग' worth 20 marks, and Section 'घ' worth 45 marks.
What topics are covered under Applied Grammar in the syllabus?
Applied Grammar includes Sandhi, Pratyaya, Word Forms (Shabdaroopani), Verb Forms (Dhaturoopani), Case Usage (Karakopapad Vibhakti Prayog), Voice Change (Vachya Parivartan), and Error Correction (Ashuddhi Sanshodhan).
What does the Sanskrit Literature History section include?
The Sanskrit Literature History section covers the origin and development of the Sanskrit language, Vedic literature, and a general introduction to Ramayana, Mahabharata, and Puranas.
What are the learning objectives for Sanskrit Core in Class 11?
Learning objectives include developing communication skills, fostering an understanding of Indian languages and culture, promoting spiritual and ethical knowledge, and enhancing intellectual and emotional development.
CBSE Class 11 Sanskrit Core syllabus 2026-27. Last updated 10 Aug 2026.